________________
'काव्यमाला।
खकुलनाशाय । एवं च पुरुषाणां मदो यशसे, स्त्रीणां कुलकलवायेति व्यज्यते। तेन च त्वयैतादृब्धनसि न विधेयमिति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता ढकारव्रज्या ।
तकारव्रज्या। नायिकासखी नायकं वचि
तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग ।
तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥ २४८ ॥ तामिति । मदनबाणास्तां नायिका तापयन्ति । त एव बाणा हे सुभग । दुःखदबाणानामपि सुखदत्वादिति भावः । त्वां तोषयन्ति । एवं च कथमन्यथैतादृशविलम्बकरणमिति व्यज्यते । नन्विदमसंभवीत्यत्र दृष्टान्तमाह-तपनकिरणास्तपनशिलां ज्वलयन्ति । तपनशिलासाम्येन खीयात्वप्रतिपादनेन तत्तुल्यत्वं नायिकायामावेद्यते । विधुं चन्द्रम् । एवं च चन्द्रसाम्येन संतापापनोदकत्वेन नायिकास्पृहणीयत्वं नायके द्योत्यते । यद्वा मदनतुल्यरूपशालित्वेन मदनविरोधित्वं नायके द्योत्यते । तेन च पीडाकरणौचित्येऽपि तदकरणेनाज्ञत्वं मदने व्यज्यते । मधुरयन्ति । पुष्टिदत्वादिति भावः । यद्वा तपनखिलानामेव चन्द्रमसः सुखदत्वादिति भावः ॥ कश्चित्कांचिदति
तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः ।
गिरिवरभुव इव लामेनामोमि ब्यङ्गुलेन दिवम् ॥ २४९ ॥ तवेति । हे सुतनु । एवं च स्पृहणीयत्वं ध्वन्यते । यद्वदसि तद्विधेयं मयेत्यनुमतिसहितायाः । पक्षे शिखरवत्याः । तु इति निश्चयेन बहुप्रकारमुत्पादितो नितम्बे रागः प्रीतिर्यया तस्याः । पक्षे बहुप्रकारगैरिकादिधातुभिर्जनितो नितम्बे कटके । 'कटकोऽत्री नितम्बोद्रेः' इत्यमरः । रागो लौहित्यादिर्यस्याः । हिमालयवसुधाया इव तव लामेन व्यकुलेन खर्ग प्राप्नोमि । लामे इति छेदे नमि काकुः । 'आमोति' इति पाठे मल्लक्षण इति शेषः । एवं च तव प्राप्तिहर्षोत्कर्षेणाहं खर्गमपि खालान्तरितं मन्य इति भावः । एवं च त्वत्प्राप्त्या खर्गसुखमपि ममात्यन्तनिकटमिति व्यज्यते ॥