________________
आर्यासप्तशती ।
कश्चित्कांचित्संकेतं वक्ति -
ज्योत्स्नागर्भितसैकतमध्यगतः स्फुरति यामुनः पूरः । दुग्धनिधौ नागाधिपतल्पतले सुप्त इव कृष्णः ॥ २४५ ॥
नायको नायिकां वक्ति
ज्योत्स्नेति । चन्द्रिकायां गर्भितम् । चन्द्रिकागर्भमध्ये स्थितमिति भावः । क्वचित् 'गर्वित' इति पाठः । यत्सैकतं तन्मध्यगतः । एवं च शरत्कालीनत्वं व्यज्यते । तेन च निश्चलत्वम् । यमुनासंबन्धी पूरः स्फुरति । अत्र दृष्टान्तमाहदुग्धसमुद्रे शेषरूपतल्पे । तल्पपदेन समत्वमावेद्यते । सुप्तः कृष्ण इव । सर्वतो विद्यमानतयोज्ज्वलतया चन्द्रिकायां दुग्धोदधेः, लम्बतया वैत्याच सैकते शेषस्य, श्यामतया निश्चलतया च पूरे सुप्तकृष्णस्योपमानता । एवं च यमुनासैकततुल्यं नान्यस्थलमिति व्यज्यते ॥
1
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता जकारत्रज्या ।
११५
झकारव्रज्या ।
सखी वक्ति
झंकृतकरणपाणिक्षेपैः स्तम्भावलम्बनैमैनैिः ।
शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् || २४६ ॥ झंकृतेति । एवं चैतादृश्यवस्थितिरपि नवोढाया नायकसुखदेति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्घनसप्तशतीव्यङ्ग्यार्थदीपनया समेता झकारत्रज्या ।
ढकारव्रज्या ।
नायकीयोन्माददौःशील्यमाकलय्य स्वयमपि दौः शील्यं विधातुकामां नायकां
ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनामिव मदः पुनः खकुलनाशाय ॥ २४७ ॥
ढक्कामिति । ढक्कां यशः पटहम् । 'स्याद्यशः पटहो ढक्का' इत्यमरः । आहत्य वादयित्वा करिण इव पुरुषा बहुकालं मदं वितन्वते । करिणीनामिव स्त्रीणां मदः