________________
काव्यमाला
काचित्कंचिद्वणि
जघनेन चापलं तव वितम्वतेयं तनूकृतापि तनुः ।
शाणेनेव क्षीणा मरासिपुत्री मनो विशति ॥ २४२ ॥ जघनेनेति । चाञ्चल्यं विस्तारयता जघनेन । अर्थादन्याजनानाम् । क्षीणीकृतापि तव तनुः । शाणेन क्षीणा । एवं च तीक्ष्णत्वं ध्वन्यते। सरस च्छुरिकेव मनो विशति । एवं च विपरीतसुरतातिशयक्षीणमपि तव शरीरं मन्मनोमोहजनकमिति व्यज्यते । एवं चैतादृशं दृष्ट्वापि न मया मानः क्रियत इति खस्मिन्साधुत्वमावेदयति ॥ कश्चित्कांचिद्वति
ज्योल्लाभिसारसमुचितवेषे व्याकोशमल्लिकोसे।
विशसि मनो निशितेव सरस्य कुमुदत्सरच्छुरिका ॥२४३॥ ज्योति । ज्योत्लाभिसारे समुचितो वेषो यस्यास्तत्संबुद्धिः । अत एव विकसितमल्लिकोत्तंसे । निशिता सरस्य कुमुदरूपा त्सरुर्मुष्टिर्यस्याः । 'त्सरुः खनादिमुष्टौ स्यात्' इत्यमरः । एतादृशी छुरिकेव मनो विशसि । एवं चैतादृशवेषशालिनी त्वं मन्मनोमोहजनिकेति द्योत्यते ॥ कश्चित्कंचिदुपदिशति
जड सुखयसि परतरुणीं गृहिणीं कारयसि केवलं सेवाम् ।
आलिकति दिशमिन्दुः खां तु शिलां वारि वाहयति ॥२४॥ जडेति । जड । एवं च कार्याकार्यविवेकवैधुर्य ध्वन्यते । पक्षे जलमयत्वाजडत्वम् । परयुवतिम् । तरुणीपदेन साहजिकरूपशालिवाभावो व्यज्यते। सुखयसि। खागनां केवलं सेवां कारयसि । अत्र दृष्यन्तमाह-चन्द्रो दिशम् । अन्यखामिकामिति भावः । आलिमति । खशिलां जलं वाहयति । चन्द्रोदये चन्द्रोपलानां स्रवणं भवतीति लोकप्रसिद्धिः । एवं चैतादृशकार्यकरणेन कलकादिभूषणमेव भावीवि द्योत्यते । तेन नैताइकर्तव्यमिति । यद्वा सिद्धानुवादोत्तरमुत्तरार्धम् । अत्र 'वह प्रापणे' इत्यस्य गवर्थकत्वेन प्राप्तद्विकर्मकत्वस्य 'नीवह्योन' इति निषेधाच्छिलयेत्यपेक्षितम् ॥ ..