________________
आर्यासप्तशती। असमीक्ष्यकारी गुरुरुपदेष्टा । एवं च तवोपदेशकोऽपि न समीचीन इति व्यज्यते। वामं सव्यम् । 'वामं शरीरं सव्यं स्यात्' इत्यमरः । इतरो दक्षिणस्तयोर्भेदः, अयं वामोऽयं दक्षिण इति स एवोपदेशो ज्ञानम् । नान्यदिति भावः। यद्वा दक्षिणेन ताडनं तदेव तवोपदेशकमित्यर्थः । वृषभ रथ्यासु सुखं भ्रमसि । एवं च यथा विक्षितवृषभो रथ्यासु भ्रमति तथा त्वमिति व्यज्यते । तेन च नास्मद्गृहागमनयोग्यस्त्वमसीति द्योत्यते ॥ वैद्यासक्ता काचिद्वक्ति
ज्वर वीतौषधबाघस्तिष्ठ सुखं दत्तमामखिलं ते ।
असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम् ॥२४॥ ज्वरेति । हे ज्वर, वीतापगतौषधिबाधा यस्यैतादृशस्त्वं सुखं तिष्ठ । समप्रमहं तव दत्तम् । सर्वाङ्गममिव्याप्य तिष्ठेति भावः । दुर्लभो यो वैद्यरूपो लोकतस्याकर्षणपाषाण । 'चुम्बकः' इति लोके प्रसिद्धिः। एवं च नायके खत आगमनशून्यत्वमावेद्यते। सखे, मां न मोक्ष्यसि । मा मुछेत्यर्थः । एवं च त्वयि विद्यमाने तदागमनं नान्यथेति द्योत्यते ॥
एतत्संगत्या खनिर्वाहो मया विधेय इति बुद्ध्या कृतनायकसङ्गां नायिकामप्रतिष्ठादिमीत्या परित्यक्तुमुद्यतं नायकं सखा समुपदिशति
जीवनहेतोमिलिता मुञ्चति करकर्षणेन न खलु त्वाम् ।
नौरिव निम्नं सुन्दर मुग्धा तद्विरसतां मा गाः ॥ २४१ ॥ जीवनहेतोरिति । जीविकार्थ मिलिता करकर्षणेन परित्यागेन खलु त्वां न मुञ्चति । निम्नं नौरिव तद्विरसतां मा गाः । एवं च त्वयैतत्त्यागे क्रियमाणेऽपि नेयं त्वां त्यक्ष्यति परं त्वेतत्करणे लौकिकमात्रं भावीति व्यज्यते । यद्वा नायिकासखी नायकं वक्ति-जीवनेति । जीवनाद्धेतोर्मिलिता जीवनार्थमागता । पक्षे जलहेतुना समागता । मुग्धा सुन्दरी । एवं च स्पृहणीयत्वं व्यज्यते करस्य हस्तस्याकर्षणेन । पक्षे करेण कर्षणं तेन । त्वां न खलु मुञ्चति । नौरिव निम्नम् । पक्षे नीचम् । अत एव मूढार्थकं मुग्धेति पदमर्थवत् । हे सुन्दर तद्वैरस्थम् । पक्षे जलाभाववत्त्वं मा गाः । एवं च नीचमपि त्वामियं विरहमीता न सजतीति ध्वन्यते ॥
आ० स०