________________
११२
काव्यमाला 1
चरणावस्थित्यनर्हत्वं द्योत्यते । भूर्गन्तव्या । गन्तव्येत्यनेनावश्यकत्वं ध्वन्यते । एवं च त्वदपेक्षया ममातिशयितदुःखमित्यावेद्यते ॥
नायको वयस्यं वक्ति
V
जृम्भोत्तम्मितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् ।
तस्याः स्मरामि जलकणलुलिताञ्जनमलसदृष्टि मुखम् ॥२३६॥ जृम्मेति । जृम्भयोवींकृतहस्तद्वय संघटितताटङ्कपीडितकपोलम् । जलकणैः । नेत्रसंबन्धिभिरिति भावः । लुलितं विस्तृतमञ्जनं यस्य । अलसा दृष्टिर्यस्य तस्या मुखं स्मरामि । जातिवर्णनमेतत् ॥
काचित्कांचिद्वति—
जागरयित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अयि शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥ २३७ ॥ जागरेति । वने कानने । पक्षे जले । शयितमिति भावः । परमन्यम् । पक्षे उत्कृष्टम् । पुरुषं जागरयित्वा सर्वतो मुखं वदनं हरसि । कमपि लज्जया न संमुखमवलोकयसीत्यर्थः । पक्षे जलं हरसि । वर्षासमयस्य समाप्तत्वादिति भावः । अयि शरत्तुल्यं शीलं जातिशालिन्या इति साकूतोक्तिः । पक्षे मालतीशालिन्याः । तवेदं शीलम् । एवं च किमर्थमत्र मिथ्या लजां नाटयसीति व्यज्यते । यद्वान्योक्त्या काचिद्वति । अयि शरज्जातिशालिन्या इदं शीलं तवानुरूपं नान्यस्या इति भावः । तदेवाह – जागरयित्वेत्यादि ॥ कश्चित्सखायं वक्ति
जीवामि लङ्घितावधिदिनेति लज्जावशेन गेहिन्या ।
मयि निहुतोऽपि बाष्पैरसंवरैर्व्यञ्जितो मानः ॥ २३८ ॥ जीवामीति । लङ्घितमवधिदिनं यया जीवामीति लज्जावशेन । वशपदेन खातच्याभावो व्यज्यते । गेहिन्या गोपितोऽपि मानः संवर्तुमशक्यैर्बाष्पैर्ज्ञापितः । एवं च मानसंगोपनमसंभवीति व्यज्यते ॥
1
काचित्कंचिदन्योक्त्या बकि
जाल्मो गुरुः सुष्टष्टो वामेतरचरणमेद उपदेशः ।
ख्यातिर्गुणधवल इति भ्रमसि सुखं वृषभ रथ्यासु ॥ २३९ ॥ जाम इति । सुष्टो जाल्मः । 'सुष्टष्टः' इति पाठ उपदेश विशेषणमेतत् । ।