________________
आर्यासप्तशती ।
छकारव्रज्या ।
सखी कुपितनायिकां वक्ति
छायाग्राही चन्द्रः कूटत्वं सततमम्बुज ब्रजति । हित्वोभयं सभायां खौति तवैवाननं लोकः ॥ २३३ ॥
छायाग्राहीति । चन्द्रस्य सकलङ्कतया कमलस्य नित्यसंकोचितयोभयपरित्यागेन नित्यनिरतिशयोल्लासवत्कलङ्कहीनतया लोके त्वदाननस्तुतिरिति भावः । एवं च निरुपमानं त्वदाननमिति व्यज्यते । तेन च कोपादिमालिन्यं न विधेयमिति । अत्र' कूटत्वमवसादः । संकोच इति यावत् । अथवा प्रमोदाभाव एव कूटत्वम् 1 'कूट अप्रमोदावसादनयो:' इति चुरादिः । ' कूटं कुप्रदाप्रमुदोः' इति कल्पद्रुमः । यद्वा कूटत्वं परितापभावम् । संकोचमिति यावत् । 'कूट परितापे ' ॥
नायिका सखीं वक्ति
छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण ।
१११
तुदति मम हृदयमिषुणा राधाचक्रं किरीटीव ॥ १३४ ॥ छायामात्रमिति । छायामात्रं पश्यन् । एवं च लोकभीतिरावेद्यते । अधोमुखोऽपि । एवं च तरलत्वाभावो व्यज्यते । उद्गतेन धैर्येण मम हृदयं तुदति । अर्जुनो बाणेन राधाचक्रमिव । पाञ्चालीखयंवरेऽर्जुनेनाधस्तनध्वजाग्रस्थितचपलमीनच्छायामात्रमालोकयता मीननयनं बाणेन हतमिति पुराणप्रसिद्धिः । एवं च गुरुसमक्षं छायामात्रमालोकयन्मल्लज्जारक्षणमकरोदित्यासक्तिविशेषो ध्वन्यते । अथवा यद्यप्ययं न साक्षादवलोकयति तथापि मन्मनोपहृतमनेनेति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता छकारव्रज्या ।
जकारव्रज्या |
प्रस्थानावसरे नायको नायिकां वक्ति
जलबिन्दवः कतिपये नयनाद्गमनोद्यमे तव स्खलिताः । कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥ २३५ ॥ जलेति । गमनोद्यमे । ममेति भावः । तव नयनात्किंचित्संख्याका जलबिन्दवः स्खलिताः, न तु निर्गताः । मङ्गलाभावशङ्कयेति भावः । एवं च निबिडपक्ष्मशाहित्वं नेत्रे योत्यते । कान्ते मनोज्ञे ममैतैरेवाश्रुविन्दुभिरेव पिच्छिला । एवं च