________________
११०
काव्यमाला ।
आत्मनश्चपलां छायां यथा हन्ति, तथा रुद्धः प्रतिगजः करमास्फालयति । एवं च जनलज्जयैव न किंचिद्वक्तीति व्यज्यते ॥
कश्वित्सखायं वक्ति
चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि । हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥ २३० ॥
चुम्बनेति । चुम्बनसतृष्णस्य ममाधरेण हृतं केसरं यस्याः । कामशास्त्रे तत्रापि चुम्बनविधानात् । चुम्बनलोलुपो यो मदधारीति गजपक्षेऽपि योज्यम् । हृदयरूपगजबन्धनस्तम्भम् । एवं च चित्तं ततोऽन्यत्र न गच्छतीति भावः । तस्यास्तद्रुयुगं स्मरन्न तृप्यामि ॥
काचित्कांचिद्वक्ति—
चिकुर विसारणतिर्यङ्गतकण्ठी विमुखवृत्तिरपि बाला । त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥ २३१ ॥
चिकुरेति । चिकुराणां विसारणं परिष्करणं तेन तिर्यङ्गतः कष्ठो यस्याः । विमुखवृत्तिरपीयं बालाङ्गुलीभिः कृतः केशावकाशो यया त्वां विलोकयति । एवं च त्वयापीयं विलोकनादिनानुप्रायेति द्योत्यते ॥
सखी नायिकां वक्ति
चुम्बनहृताञ्जनार्षं स्फुटजागररागमीक्षणं क्षिपसि ।
किमुषसि वियोगकातरमसमेषुरिवार्धनाराचम् ॥ २३२ ॥
चुम्बनेति । चुम्बनेन हृतमजनार्ध यस्याः । कामशास्त्रे नेत्रप्रान्तचुम्बनविधानादिति भावः । प्रकटो जागरेण रागो यस्य तत् । वियोगाय । भाविन इति भावः । भीतमीक्षणं प्रातः किमिति क्षिपसि । एवं च भीरुतातिशयो व्यज्यते । मदमोऽर्धनाराचमिव । एवं च निःसारणानर्हत्वेन नायके गमनसामर्थ्याभावो द्योत्यते । एवं च नायके नायिकासक्तिविशेषो ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गथार्थदीपनया समेता चकारव्रज्या ।