________________
आर्यासप्तशती।
· भाग्यवत्संनिहितानुपकारिजनसेवाकारिणं कश्चिदन्योक्त्या वक्ति
चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः ।
इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥२२७॥ चरणैरिति । हे मधुप । एवं च विवेकविधुरत्वं व्यज्यते । पदैः । बहुवचनेनोद्योगशालित्वं ध्वन्यते । केतक्या इदं परागरूपसैकतम् । सैकतपदेन सलिलाशायोग्यत्वं व्यज्यते । व्यर्थ लिखसि । व्यर्थत्वमेवाह-कान्तिरेव सारो यत्र । इह परागसैकते नान्तःसलिलापि । अपिना बहिःसलिलव्यवच्छेदः । मकरन्दनदी विष्ठति । एवं च खरूपमात्रशालिष्वेतेषु न दयालेशः, अतोऽत्र नाशा त्वया विधेयेति ध्वन्यते । यद्वा कस्याश्चिनायिकायाः संगमाशया तत्संनिहितप्रदेशे यातायातकारिणं काचिदन्योक्या वति । एवं चैतस्याः खान्तरेऽपि न मद इति व्यज्यते । तेन चेयं सतीति । तेनात्र तवानर्थकः श्रम इति ॥ नायिकालीननखक्षतकिणदर्शनसंजातसंशयं नायक नायिकासखी वक्ति
चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध ।
त्वन्निस्त्रिंशाश्लेषत्रणकिणराजीयमेतस्याः ॥ २२८ ॥ चिरेति । हे चिरकालीनपथिक । एवं च विरहातिशयादुन्मादानिस्त्रिंशालिङ्ग नकारित्वौचिसं ध्वन्यते । मुग्ध सुन्दर । अथ च मूढ। संशयेन । व्रणाः किंजन्या एवंरूपेण । तरङ्गितं कृतं दूरव्यापारवत्कृतमक्षि येन सः। किमीक्षसे । एतस्यास्त्व. दीयो यस्त्रिंशदगुल्यधिकः खड्गस्तदालिङ्गनव्रणकिणपङ्किरियम् । एवं च क्षतादिवेदनामविचार्याप्यनया त्वदीयत्वेन प्रीतिपात्रत्वत्खगालिगनेन समविवाहितोऽतितरां समयः । अतो नैतस्यामन्यथा संभावनीयं बहुतरदिवसपरदेशावस्थितिरूपापराधशालिना त्वयेति ध्वन्यते.। एवं चैतस्या यथा त्वयि प्रेमातिशयस्तथा न कस्याश्चित्कस्मिंश्चिदिति व्यज्यते ॥ . खाविवेकाचाञ्चल्यदोषशालिनी निजनायिकां ताडयन्तं कंचन तत्प्रतिवेशी तद: जनालम्पटतया तं प्रति कलहं कर्तुमुद्यतोऽपि निरुद्ध इति काचिदन्योक्त्या वक्ति
चपलां यथा मदान्धश्छायामयमात्मनः करी हन्ति। .
आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥ २२९॥ चपलामिति । मदान्धः । एवं चानुचितकारित्वं व्यज्यते । अयं करी ।