________________
काव्यमाला।
इति व्यज्यते । अपरदिशम् । अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णा कर्तुम् । अथ च सफलां कर्तुम् । गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥
काचित्कस्याश्चिदवस्था वक्ति.. चिरपथिकदाधिममिलदलकलताशैवलावलिग्रथिता ।
करतोयेव मृगाक्ष्या दृष्टिरिदानी सदानीरा ॥ २२ ॥ चिरपथिकेति । चिरकालीनो यः पथिकस्तस्य दैर्येण । अतिविलम्बेनेति यावत् । मिलन्यः। संस्काराभावादिति भावः। याः केशरूपलतास्तद्रूपा या शैवलपङ्कितया। पक्षेऽलकलतावदित्यर्थः । प्रथिता युक्तेति यावत् । अत्र लतापदं परस्परसंलमतामावेदयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुःखवत्वातिशयो धन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम । 'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति संबुद्धिः । द्राधिम्णा दैर्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥ नायको नायिका वक्ति
चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।
धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥ चण्डीति । हे चण्डि । एवं च वस्यानपराधित्वं ध्वन्यते। ईषच्चञ्चलचेलेन प्रकटोवोर्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताडनत्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्सन्तासकः, अतो मानं परित्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥ कश्चित्कंचिद्वकि
चलकुण्डलचलदलकस्खलदुरसिजवसनसजदूरुयुगम् ।
जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६ ॥ चलेति । चलकुण्डलम्, चलदलकम् , किंचिदूरीभूतखनवसनम् , संघवदूरुयुग्मम् , जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः । जातिवर्णनमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादावेकवद्भावः । अस्या इदम् । सर्वमित्यर्थः । गतं गमनम् । ममेति-भावः । हरति । इत्यपि योजना ॥