SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। चकारव्रज्या। काचित्कांचिद्वति चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य । खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥ २२१ ।। चपलस्येति । चपलस्य । एवं च पराङ्गनालम्पटत्वं व्यज्यते। दयितस्य । एवं च प्रीतियोग्यत्वं ध्वन्यते । मौलिं जराचिह्नितकेशमवलोक्य खेदा:ऽपि । खस्याप्यसमीचीनत्वादिति भावः । समय आनन्दमेव गृह्णाति । खस्याप्यकार्यसंतोषेण नायके सामान्याङ्गनालम्पटत्वेन द्वेषातिशयो व्यज्यते ॥ नायिका नायको वक्ति चण्डि प्रसारितेन स्पृशन्भुजेनापि कोपनां भवतीम् । तृप्यामि पड्किलामिव पिबन्नदी नलिननालेन ॥ २२२ ॥ चण्डीति । हे चण्डि, प्रसारितेन । एवं च निकटवर्तित्वाभावो व्यज्यते। भुजेनापि । नीरसेनेति भावः । कोपनां भवतीं स्पृशन् । यद्वा अपिरत्रान्वेति । एवं च तृप्त्यजनकत्वं ध्वन्यते । तृप्तिं प्राप्नोमि । पङ्किलां नदी नलिननालेन पिकनिव । नलिननालेन पाने खच्छजलागमनात्तृप्तिः । एवं च मम दुःखाजनकत्वेन त्वन्मानधारणमनर्थकम् , अतस्त्यज मानमिति द्योत्सते । भुजे नालसमताप्रतिपादनेन कोमलत्वपाण्डुरत्वसूक्ष्मत्वशीतलत्वानि व्यज्यन्ते । तैश्चाज्ञेयस्पर्शत्वविरहक्षीणत्वसंतप्तत्वसुखदत्वानि ॥ खण्डिता नायकं प्रातस्तनसमीरणामेदेन वक्ति चपलमुजंगीमुक्तोज्झित शीतलगन्धवह निशि प्रान्त । अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥ चपलेति । प्रातःकालीन वायो।अथवा प्रातःकाले सदा निरन्तरमागविरागमनं यस्य एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते। चपला या भुजंग्यः सर्पिण्यस्वामिभुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानहत्वं व्यज्यते । अथ च चपलाः। एवं च सर्वजनवेद्यचाचल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते ।भुजंग्यो वेश्यास्ताभिर्भुवोज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं गन्धम् । भोगार्थ परिगृहीतमिति भावः । वहतीति । निशि रात्री भ्रमणशील। अथ च रात्रिश्रान्तिमन् । एवं च रानौ तब पैशाच्यमेव जायत
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy