________________
काव्यमाला।
प्यसौ बाला तरुणी मुच मुञ्चेति वकि। एवं चैतस्या मुञ्च मुश्चेति वचनं मिथ्येति विज्ञाय वर्तितव्यं त्वयेति द्योत्यते। 'आलिङ्गति' इति पाठ आलिङ्गति वदत्यपीति योजनायां वचनसमय आलिङ्गनसत्त्वेन विरुद्धकार्यकारितया रतिनिर्भरत्वं ध्वन्यत इत्यर्थः । नायकवचनं वा वयस्सं प्रति ॥ अदृष्टवशादेव लक्ष्मीः स्थिरा भवति, न यत्नेनेति कश्चिद्वक्ति
घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः।
उज्जागरेण कैख कति शक्या रक्षितुं लक्ष्मीः ॥ २१९ ॥ घटितेति । घटितं पत्ररूपं कपाटं यत्र । 'पत्रं पलाशं छदनम्' इत्यमरः । निशि निशि । एवं च सर्वदोद्यमशून्यत्वम् । सुखवन्तः पद्माः । 'वा पुंसि पद्मम्' इत्यमरः । खपन्ति । पद्मानां सूर्यविकासित्वाद्रात्रौ संकोच इति भावः । हे कैरव, उत्कृष्टजागरेण लक्ष्मीः कियद्रक्षितुं शक्या। चन्द्रविकासित्वात्कैरवाणामिति भावः । एवं च निरुद्यमानामपि लक्ष्मीर्जायते, सोद्यमानामपि नश्यतीति दैवमेव संपद्रक्षणे क्षममिति ध्वन्यते । यद्वा या यानान्यत्र गन्तुकामा सा न केनापि रक्षितुं शक्येति कश्चिद्वति। पलाशवत्कपाटम् । एवं च दूरीकरणाहत्वं व्यज्यते । पद्माः । उज्जागरेण। उत्कृष्टरक्षणेनेति यावत् । लक्ष्मीपदेन चञ्चलखाभाव्यमभिव्यज्यत इत्यर्थः ॥ कश्चित्प्रातःकालं वर्णयति
घूर्णन्ति विप्रलब्धाः स्नेहापायात्प्रदीपकलिकाश्च ।
प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥ २२० ॥ घूर्णन्तीति । विप्रलब्धा वियोगिन्यः । यद्वा संकेतनिकेतने प्रियतमप्राप्तिसमाकुलहृदया विप्रलब्धाः। प्रदीपकलिकाश्च । स्नेहस्य प्रीतेस्तैलस्य च नाशाद्वर्णन्ति । मनोरथादिभिरधुना समायास्यतीति धिया च संपूर्णयामिनीजागरादिति भावः । विनश्वरा भवन्ति च । प्रस्थितो न तु गतो यो पान्थखत्कान्ताहृदयं कमलं च प्रातः स्फुटति द्वधा भवति । दुःखोद्रेकादिति भावः । विकसति च। यद्वा जातोऽयं प्रातःकालः, अत इतोऽपसरणं सम्यगिति सखी नायकं वतीत्यर्थः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्ययार्थदीपनया समेता पकारव्रज्या ।