________________
१२०
काव्यमाला।
वसानां गणना तया वलक्षा अर्जुनाः। 'वलक्षो धवलोऽर्जुनः' इत्यमरः । या रेखास्वाभिश्चिह्निता । इयन्ति दिनानि जातानीति ज्ञानार्थमिति भावः । तस्या गेहमित्तिरपि । एवं च तदेहभुवः का वार्तेति व्यज्यते । गण्डस्थलीव पाण्डरिता । एवं चातःपरं विलम्बो न विधेय इति ध्वन्यते ॥ कथमन्यत्रानुरागं बनासीति वादिनीं सखी प्रति नायिका वक्ति
तस्याग्राम्यस्याहं सखि वक्रखिग्धमधुरया दृष्ट्या ।
विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥ २६१ ॥ तस्येति । हे सखि । एवं च रहस्यकथनाहत्वं ध्वन्यते। तस्याग्राम्यस्य । नागरिकस्येत्यर्थः । एवं चासक्तियोग्यत्वं ध्वन्यते । पक्षे वन्यस्य । वक्रप्रेमार्द्रसुन्दरया । 'तीव्र' इति पाठे वेधजननयोग्यत्वं ध्वन्यते । दृष्ट्या विद्धा । विद्धापदमन्य
गमनानहत्वं ध्वनयति । पोत्रिणो वराहस्य दंष्ट्रया धरणीवाहं तदेकनेया। एवं चान्यत्र न ममानुराग इति द्योत्यते ॥
बहुतरवसुसत्त्वेऽपि कुप्रामे वसतौ केवलं तव चण्डालानुग्रहादेवाभयं नान्यत इति कश्चित्कंचिदन्योक्त्या वक्ति
त्वयि कुग्रामवटदुम वैश्रवणो वसतु वसतु वा लक्ष्मीः ।
पामरकुठारपातात्कासरशिरसैव ते रक्षा ॥ २६२ ॥ त्वयीति । हे कुप्रामवद्रुम । कुग्रामपदेन निवासानहत्वं द्योत्यते । वैश्रवणः कुबेरः । 'किंनरेशो वैश्रवणः' इत्यमरः । वसतु । अथवा लक्ष्मीर्वसतु । पामरस्य मूर्खस्य। एवं च कुबेरादिवसत्या छेदानहत्वज्ञानविधुरत्वमिति व्यज्यते । कुठारपातात्ते रक्षणं कासरस्य महिषस्य मस्तकेनैव । चण्डालसदनस्थत्वादिति भावः ॥ नायिकासखी नायकं वक्ति
तव मुखर वदनदोषं सहमाना मोक्तमक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥ २६३ ॥ तवेति । हे मुखर, तव वदनदोषम् । असमीचीनभाषणमिति भावः। यद्वा मुखरं यद्वदनं तद्दोषम् । सहमाना मोक्तुम् । त्वामिति भावः । असमर्था । प्रेमवशादिति भावः । यद्वा कुलीनत्वादिति भावः । सा सुतनुः । विट । न केवलं मौखर्यम् , मपि तु वेश्यासतिरिति भावः । एवं चोपदेशानहलं ध्वन्यते । भवन्तं