________________
૪
अध्यात्मतत्त्वालोकः ।
९
तथाविधाः श्रीगुरवो भवाब्धौ स्वयं तरीतुं न पर यतन्ते ।
उद्धर्तुमन्यानपि देहभाजः, परोपकाराय सतां हि यत्नः ॥
१०
न यत्र रागादिकदोषलेशो
ज्ञानं च यत्राखिलतत्त्वभासि ।
स पूर्णशुद्धो भगवान् परात्मा
सतां मतो 'देव' पदाभिधेयः ॥
११
रागेण रोषेण वयं प्रपूर्णा
स्तथैव देवोऽपि हि सम्भवेच्चेत् ।
कस्तत्र चास्मासु च तर्हि भेदो विवेक्तुमर्हन्ति बुधा यथावत् ॥
१२
अरागभावः पुरुषार्थसाध्यो
देवस्य तत्त्व परमं तदेव ।
रागादिदोषेष्वपयातवत्सु
सद्यः परज्योतिरुदेति पूर्णम् ॥
[ द्वितीय