________________
४०
1
अध्यात्मतत्त्वालोकः ।
७७
'इन्द्राः सुराश्वक्रभृतो नरेन्द्रा महौजसः श्रीपतयः सुरूपाः ।
सर्वेऽपि कर्मप्रभवा भवन्ति
कस्तत् सतां कर्मफले विमोहः । ॥
७१
विभाव्य धीमान् क्षणिकं समग्र विश्वप्रपञ्चं निपुणं स्वदृष्ट्या
मोहानधीनं स्वमनो विधाय गच्छेत् पथेनात्महितावहेन ॥
७९
सदा निरीक्षेतं निजं चरित्रं
यच्छुद्धिमाप्नोति विधीयते वा
हानि च वृद्धि च घनस्य पश्यन् मूढः स्ववृत्ते न दृशं करोति ॥
ર
करोषि दृष्टि न गुणे परस्य
दोषान् ग्रहीतुं तु सदाऽसि सज्ज' ।
युक्तं न ते शूकरवत् पुरीषे
परस्य दोषे रमणं विधातुम् ॥
[ प्रथम