________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
• धर्मों महानस्ति परोपकारः
परापकारो महदस्ति पापम् । । विहाय धमै चरणं च पापे
सुधामनादृत्य विषस्य पानम् ॥
... जागर्ति पुण्यं प्रबलं यदीयं ... ' प्रवर्धमानोदयभागधेयम् । तमन्यथाकमिलं न कोऽपि
कस्मैचिदीष्येन विवेकि चेतः ।।
•. अम्युनतिश्चावनतिश्च यत् स्यात्
' '. पुण्यस्य पापस्य च जृम्भित तत् । क्षीणे च पुण्येऽभ्युदयो व्यपैति
तन्नश्वर शर्मणि को विमोहः । ॥
1 ऐश्वर्यमालोक्य भुवां विचित्रं
चित्रीयसे मुह्यसि वा कथं त्वम् । 1- विपाक एवास्ति हि कर्मणोऽसौ . .
पाताय लुब्यस्य च पुण्यभोगः ॥ .
.