________________
२४
अध्यात्मतत्त्वालोकः ।
[प्रथम
१५
गिरेगुहायां जलधेश्च मध्ये
पातालभूमौ त्रिदशालये वा। क्वाप्येतु मृत्योस्तु भवेन गुप्तः ...: स भूर्भुवःस्वस्त्रितयं हि शास्ति ।
उद्दण्डदोर्दण्डबलव्यपास्त
जगहला दुःसहतेनउपाः। प्रशासति स्म क्षितिमण्डलं ये
तेऽपि प्रयाताः खलु रिकहस्ताः ॥
जेगीय्यते स्मेन्दुमयूखशुभ्र
यशो यदीयं पृथिवीतलेऽस्मिन् । महाभुजास्तेऽपि हता यमेन
व्यादाय वक्त्रं सहसा प्रसुप्ताः ॥
महालयोऽयं धनकोश एष
इमाः समुख्यः परिवार एषः । ध्यायन्निति स्यान्मनुनः प्रफुल्लो
इशोस्तु सम्मीलितयोन किन्धित् ॥