________________
२२
अध्यात्मतत्त्वालोकः ।
(प्रथम
' कस्तूरिकासौरभलुब्धचेता
मृगो यथा धावति तन्निमित्तम् । न वेत्ति तु स्वोदरवर्तिनी तां प्राणी तथा सौख्यकृते सुखात्मा ।।
४२ 'प्रभातकाले दिनमध्यकाले
सायं च काले खलु वैसदृश्यम् । ' . पदार्थसाथै परिदृश्यमानं
संसार आस्था क्षणभङ्गुरे क्व ! ॥
सम्बन्ध औपाधिक एष सर्वः । ' संसारवासे वसतां जनानाम् । स्वभावसिद्धं परमार्थरूप
चिपसम्बन्धमुपेक्षसे किम् ? ॥
नारी किमीया' तनयः किमीयो
मित्रं किमीयं पितरौ किमीयो। गन्तव्यमेकाकिन एव हीतः
पुण्यं च पापं च पर सह स्यात् ।।