________________
२४६
अध्यात्मतत्त्वालोकः।
[सप्तम
तत् प्रातिम केवलबोधभानोः
प्राग्वृत्तिकं स्यादरुणोदयामम् । 'ऋतम्भरा' 'तारक' एवमादि
नामानि तस्मिनपरे वदन्ति ॥
संन्यासरूपः स्मृत एष योगो
धर्मस्तथा योग इति द्विधासौ। तत्राऽऽदिमः स्यात् क्षपकावलिस्थे
शैलेश्यवस्थावति च द्वितीयः ॥
आत्माऽऽदिमं योगमुपेत्य वीरोड
नन्तं परिस्फोरयति स्ववीर्यम् । निहत्य मोहावरणान्तरायान् ।
सद्यः प्रभुः केवलचिन्मयः स्यात् ।।
परस्त्वयोगोऽपि मनोवचोऽङ्ग
___ व्यापाररोधात् सकलप्रकारैः । अवादि मुक्त्या सह योजनेन
योगो भवाम्मोनिधिरोध एषः॥