________________
अध्यात्मतत्त्वालोकः ।
[षष्ठ
प्राप्यापि बोधि मलिनैर्मनोवाक्
छरीरयोगैः कुधिया मयैव । प्रचालितः स्वोपरि धूमकेतुः
कोऽत्रापराधी परिभान्यतेऽन्यः ।।
स्वाधीनभावेऽपि पथस्य मुक्ते
न्त्यिा स्वयं पातित एष आत्मा । - भिक्षां यथाऽटेदुपलब्धरान्यो
मोक्षे स्वतन्त्रेऽपि तथा भ्रमोऽयम् । ॥
२७ एव हि रागादिकदूषणेभ्यो
नाता अपायाः परिचिन्तनीयाः । यस्मिन्नुपाया अपि तत्प्रणाशे ___ध्यानं द्वितीय तदपायनाम ।।
उदीरितः कर्मफलं विपाकः
शुभाशुभत्वेन स च द्विभेदः । द्रव्यादियोगात् स च चित्ररूपोऽ
नुभूतिमास्कन्दति देहभानाम् ।।