________________
२१.
अध्यात्मतत्त्वालोकः । [पञ्चम--
२५ ' ' अनित्यभावादिकभावनाः स्मृता ।
महर्षिभिर्दादश तासु सन्ततम् । विभाव्यमानासु ममत्वलक्षणा
न्धकारनाशे समताप्रभा स्फुरेत् ।।
२६
मुखं न नित्यं करणं न नित्य
भोगा न नित्या विषया न नित्याः। विनश्वरोऽयं सकलः प्रपञ्चो न किञ्चिदास्थास्पदमत्र नाम ॥
२७ महीपतिश्चक्रधरः सुरेश्वरो
योगीश्वरो वा भुवनत्रयेश्वरः । सर्वेऽपि मृत्योरुपयान्ति गोचरं शरीरभानो भववास ईदृशः ।।
२८ दुःखानि दुष्कर्मविपाककाले
ढौकन्त उग्राणि शरीरमानः । अमु ततस्त्रातुमलं न कश्चिद् ,
मार्गोपदेशाच्छरणं च सन्तः ॥