________________
१८८
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
लुण्टाक एकः खलु मोक्षमागे
सम्प्रस्थितानां सुमहाशयानाम् । स लोभनाम्ना नगति प्रसिद्धो
मोहस्य राज्ञः प्रथमः प्रधानः ॥
भवस्य मूलं किल लोभ एको
'मोक्षस्य मूलं तदभाव एकः । एतद्धि संसारविमुक्तिमार्ग
दिग्दर्शन योगबुधा अकार्युः ॥
सुदुर्जयानां प्रथमोऽस्ति लोम
स्तस्मिन् जिते कि न नितं त्रिलोके ।। लोभस्य पाते हत एव मोहः
क्रोधादिनाशेऽप्यवशिष्यतेऽसौ ॥
लोभोऽस्ति चिन्तालतिकामु कन्दो
रक्षो गुणानां कवलीकृतौ च । महांब विघ्नः पुरुषार्थसिद्धौ
जयत्यमुं सत्त्वसमुद्रचेताः॥