________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
इयं त्र माया जननी तदीया
यः सर्वदोषेषु पुरस्सरोऽस्ति । आख्या मृषावाद इतीदमीया
म सज्जनः सेवति तेन मायाम् ॥
अप्रत्ययानां प्रसवस्य भूमी
मपारसन्तापसमर्पक च। शल्यं महच्चेतसि नाश्रयेत
मायापर्थ दुर्गतिमावहन्तम् ॥
कुर्वन्ति ये दुःखि मनः परस्य
प्रतारणातो बहुमिः प्रकारैः । पुष्णन्ति हिसाविषवल्लरी ते
दूरे दयारामत ईशः स्युः ॥
पिपीलिकादीन् लघुदेहमानो
रक्षन्ति यत्नैर्मनुजान् पुनर्ये । प्रपातयन्त्यापदि वञ्चयित्वा
ते निर्दया धर्मविचारहीनाः ॥