________________
१७०
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
३३ क्रिया सुसाधा च तपः सुसा, __ • ज्ञानं सुसाध नियमाः सुसाधाः। दुःसाथ एकः स च कोपरोषः ।
स साधितः साधितमप्यशेषम् ॥
ज्ञेयं गृहस्थैरपि यत्र तत्र
क्रुद्धस्वभावाचरण न युक्तम् । ' सर्वत्र सर्वेष्वपि घोषयामो .
हिताय तत्संयमनप्रवृत्तिः ॥
अनेकशास्त्राणि विलोकितानि . :
रहस्यमध्यात्मगिरां च लब्धम् । ' तथापि लब्धा 'यदि नो तितिक्षा
ज्ञेयस्तदाऽसौ हृदयेन मूर्खः ॥
यावन मानादिकदूषणानां
प्रचार आयाति निरुद्धभावम् । क्रोधो भवेत् तावदशक्यरोधो
मानादिदोषा अपि तेन हेयाः ॥