________________
अध्यात्मतत्त्वालोकः ।
तृतीय
गृहस्थवर्गस्त्वपरिग्रहत्व• मध्यासितुं न प्रभविष्णुरस्ति । अतः स कुर्वीत परिग्रहस्य
प्रमाणमाशाप्रसरावरोधि ।
परिग्रहस्यानवधौप्रचारे • ' ' तृष्णा 'प्रचार लमते नितान्तम् । ' 'ततो जनः पोत इवाम्बुराशी
'' भवे निमज्जेदिति वेदितव्यम् ॥
परिग्रहाऽऽसक्तिवशीभवन्तं
मुष्णन्ति चौरा विषयाभिधानाः । दहत्यनङ्गो दहनः कषाय
व्यावा निरुन्धन्ति पुनः समन्तात् ।।
पापस्य वल्लीमसुखस्य खानि
दोषावलीमातरमाहुराशाम् । आशोर्मयस्तत्र चरन्ति वेगाद् . ..
न यत्र भासः शशिनो रवेश ॥ ,