________________
१०२
अध्यात्मतत्वालोकः ।
[तृतीय
यस्मिन् प्रदीपं शलभन्ति दोषा
यस्मिन् सुधांशौ परितापशान्तिः । यस्मिन् समुद्रे गुणरत्नभूति
स्तद् ब्रह्म को न स्पृहयेत् सचेताः॥
यस्मिन् दिनेशे, परितप्यमान
उपद्रवध्वान्तमुपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षे
तास्मन् व्रते ब्रह्मणि जागृतः स्यात् ।।
सिहासने चोपविशन् सुरेन्द्रः
प्रवन्दते यान् शुचिभक्तिनम्रः । ते ब्रह्मचर्यव्रतबद्धचित्ता
मनस्विनो मर्त्यमुवां जयन्ति ||
फलन्ति मन्त्रा वहते च कीर्ति
रध्यासते सन्निधिमप्यमाः । यस्मिन् सति प्रस्फुरितप्रमावे
तद् ब्रह्मचर्य सुविचारलभ्यम् ॥