________________
७६
अध्यात्मतत्त्वालोकः ।
३३
सम्पादितश्चेत् तपआदरेण
कष्टस्य सम्यक् सहनस्वभावः ।
बहुप्रसङ्गेषु हितावहः स्याद्
रौद्रो न च स्यान्मरणक्षणोऽपि ॥
३४
भुक्तिः सकृद् वा रसवर्जिता वेदूनकुक्षिर्मितवस्तुभिर्वा ।
मिष्टाशनानामपि साम्यतो वा
प्रकीर्तिता सापि तपःस्वरूपा ॥
३५
गस्य दूरीकरणं तपोऽस्ति
प्राप्तं रहस्यं तपसोऽत्र सर्वम् ।
धन्या रमन्तेऽत्र विवेकदीपप्रोद्भामितात्मोन्नतिहेतुमार्गाः ॥
३६
कल्याणरूपः परमोऽपवर्गों
भवाभिनन्दा द्विषते पुनस्तम् ।
अज्ञानसाम्राज्यमिदं प्रचण्ड
महो ! महादारुण एष मोहः ! ॥
[ द्वितीय