________________
७४
अध्यात्मतत्त्वालोकः । [द्वितीय
२९
रोगादियोगे सति पारवश्ये
कटं मनुष्यः सहते समग्रम् । उद्देश आत्मोन्नतिसम्पदस्तु
स्वाधीनतायां न तपः करोति । ॥
बदन्ति सन्तः, प्रतिपद्यते च
दावाग्निकल्सो भव एष भीमः । विचित्ररूपास्ति च कर्मसृष्टि
स्तद् भोगकीटीभवितुं न युक्तम् ।।
त्यागेन मुक्तिः खलु भोगतो न
भोगाश्च रोगाश्च भजन्ति मैत्रीम् । मोक्षो भवेचेद् विषयानुषते
भवे तदा को मत पर्यटन स्यात् । ।
अन्तःशरीरं प्रचरन्ति कर्म
प्रत्यर्थिनो गुजदनन्तशौर्याः । अन्नं प्रवेश्यं यदि पोषणीया
नान प्रवेश्यं यदि शोषणीयाः ।।