________________
चासौ सव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्र्व्यस्तस्य भावस्तत्ता तया हेतुभूतया, अलाइंति अस्थिराणि, उवगरणाईति अंगानि, चलोवगरणट्ठयापति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः ।। । अत्र केवलिनः सत्यपि केवलज्ञाने चलोपकरणत्वं दशितं चलोपकरणत्वादेव कदाचित् सूक्ष्मादिजीववधसंभवों दुर्निवार्य इति ।
अत्र च निरंशः कालः समय इति लक्षणः समयो न गृह्यते यतः सा क्रिया नास्ति यस्यां क्रियमाणायां असंख्याताः समया कान भवन्ति । नात्र समयशब्देनावसरो वेला इति व्याख्येयं यथा कश्चित् शिष्यो गुरुं विज्ञपयति समयो भवति तदाहं पठितमागच्छामीत्यादि सर्वजनप्रतीतं अस्मिन्नेव सूत्रे सेयकालंसित्ति कथनेनायमेवार्थः सूचितः । अत्रापि सम्यग विचारय स्वमतेप्रस्तो भूत्वा अन्यथार्थ मा कुरु । यतः
पयमक्खरं पि इक्कं जो न रोएइ सुत्तनिद्दिट्ट । सेसं रोयंतो विहु मिच्छट्टिी जमालि व ॥१॥ इति | वचोजानानस्त्वं हठग्रस्तः किं भवसीति ॥ ___ अन्यच्च-अवश्यंभावी भावः सर्वत्रापि केवलिनोऽपि
श्यते । यदाहुः-श्रीअभयदेवसूरयो भगवत्यां नवमशतके जमाल्यधिकारवृत्तौ।
अथ श्रीमहावीरेण सर्वज्ञत्वादमुं व्यतिकरं जानतापि किमिति प्रवाजितोऽसाविति उच्यते--अवश्य भाविभावानां महानुभावरपि प्रायो लंधितुमशक्यत्वादिति ॥
IAAAA5*5**