________________
कुमताहि
॥ ४ ॥
तथाष्टमहाप्रातिहार्यशालिनि चतुस्त्रिंशदतिशय श्रीविराजमाने श्रीवीरे सति कुशिष्येण सुनक्षत्रसर्वानुभूती साधू तेजोलेश्यया भस्मसात्कृतौ । एवं द्वारकादाहादयोऽपि भावाः सुरेन्द्रैर्जिनेन्द्रैरपि दुरपासनीयास्तत्रावश्यंभावी जीववधो दुरपासनीयः, स च जीववध ईर्यापथिकीक्रियाया एव कारणं न तु आरंभिकीक्रियाया, यत ऊचुः श्रीभगवत्यां प्रथमशतके प्रथमोद्देशकवृत्तौ श्रीअभयदेवसूरयः -
यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारंभकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथंचिदात्माद्यारंभकत्वेऽप्यनारंभकल्यं, "
यदाह
जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ त्ति । न च वाच्यं चलोपकरणतयावश्यंभावि सूक्ष्मादिनीववधवत् मृषावादित्वादसभोगित्वाद्यप्यस्त्विति तत्र चलोपकरणत्वं कारणं नास्ति यथा चलोपकरणतया अणगारस्स णं भावियप्पणी- पुरओ दुहओ जुगमायाए पेहाए रीयंरीयमाणस्स अहे कुक्कुडपोत एवेति सूत्रं श्रीभगवतीसूत्रे दर्शितं तथा चलोपकरणतया मृषावादित्वादत्तभोगित्वादिविषयकं सूत्रं दर्शितमभविष्यत्तश्च नू दृश्यते तेन चलोपकरणत्वं तत्र कारणं न भवतीति तेन मुंच प्रतिकूलतया जल्पाकत्वं अंगीकुरु स्वगच्छाधिराजश्रीविजयदेवसूरीणां वच इति । यतः --
जह आणवेइ राया पगईओ तं सिरेण इच्छंति इय गुरुजणमुहभणियं कथंजलिउडेहिं सोयच्यंति सूत्रं प्रतिदिनं
विषयुक्तिजाली
मन्त्रः ॥
॥ ४ ॥