________________
पठन्नपि स्वगच्छाधिराजानां वचः कथं लंपसीति । अन्यच्च असāद्याश्रमाधिकारे श्रीप्रवचनसारोद्धारवृत्ती ६६ चरणद्वारे
"आश्रवाणा निरोधो यः, संवरः स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते ॥ १॥ अयोगिकेवलिप्वेव, सर्वतः संचरो मतः ।
देशतः पुनरेकद्वि-----प्रभृत्याश्रवरोधिषु ॥२॥" अत्र 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति कथनेन सयोगिषु केवलिषु सर्वतः संवरो नागत एवेत्यक्षराणि त्वया दृष्टाग्येव न तन्मन्ये त्वं स्वमतहठी वर्तसे तेन स्वमतानुकूलाभासान्यक्षराणि पश्यसि परं तत्त्वमार्गानुसारीण्यक्षराणि पश्यस्येव न । यथा लोभाभिभूतो ६ वगिक स्ववहिकापत्रेपु लभ्याक्षरागि पश्यति पर देयाक्षराणि पश्यत्येव नेति दृष्टान्तं लं करोपीति ॥
अन्यच्च-द्रव्यभावाभ्यां हिंसा चतुर्भङ्गीविचारे प्रतिक्रमणसूत्रवृत्तौ तत्र द्रव्यतो भावतश्च हिंसा हन्मीति परिणतस्य मृगादिवधे १, द्रव्यतो न तु भावतो हिंसा ईर्यासमितस्य साधोः सत्त्ववधे २, भावतो न तु द्रव्यतो हिंसांगारमर्दकस्य कीटबुद्ध्यागारमर्दने ३, न द्रव्यतो न च भावतो हिंसा मनोवाक्कायैः शुद्धस्य साधोः ४ ॥
अत्र मनोवाक्कायैः शुद्धः साधुर्मेषोन्मेषौ कुर्वाणस्तथान्यसूक्ष्मांगसंचाले बादरवायुकामादिविराधनां कुर्वाणश्च चतुर्थमंगे निर्दिष्टस्तेनावधेहि यथा केवली नित्यं चतुर्थभंगे वर्तते । तथा मनोवाक्कायैः शुद्धः साधुरशक्यपरिहारजां हिंसां कुर्वन्नपि चतुर्थे भंगे एवापतति अशक्यपरिहारजा हिंसा १ तीयकृदाज्ञातक्रिया जाता च हिंसा २ हिंसा दोषाय न भवतीति ज्ञायते यथा व्यारव्यानक्षणे हस्तकान्