SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ वदनमकुरु पावनरसनं जिनचरितं गायं गायम् । सविनय शान्तिसुधारसमेनं चिरं नन्द पायं पायम्, ॥ इति शान्तसुधारस गेयकाव्ये संवरजावनाविभावनो नामाष्टमः प्रकाशः ॥ ॥ ८ ॥ व्याख्या - हे आत्मन् सविनय विनयविधिसमन्वित । त्वं जिनचरितं जिनानां चरितं विहारोपकारधर्मोपदेशादिप्रवर्तनं गायं गायं गीत्वा गीत्वा । पावनरसनं पावना पवित्रा रसना जिह्वा यस्मिंस्तत् पावनरसनं । वदनं मुखारविन्दं । अलंकुरु भूषय | एनमनन्तरदर्शितं । शान्तसुधारसमुक्तस्वरूपं । पायं पायं पीत्वा पीत्वा । चिरं प्रभूतकालं यावत् । नन्द सुखसमृद्धो नवेत्यर्थः ॥ ८ ॥ ॥ इति श्रीतपागीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजय मुख्य शिष्य श्री मुक्तिविजयगसितीर्थ्य तिलक मुनिश्री वृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारतटीकायां संवरजावना विजावनो नामाष्टमः प्रकाशः समजनि ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy