________________
णामं घेषं, स्वस्मिन् श्रितं स एव रागरूपं, प्रोक्तरीत्यैव सर्वैः सह संयोगाः कार्याः । यथा परस्मिन् वृत्तं क्रोधं समार्थ ★ क्रोधसोनं घेषरूपं, एवं मानं समायं मानलोजमपि घेषरूपं । स्वस्मिन्नाश्रितं क्रोधं समायं मानं समार्थ मानसोनं रागरूपं । समायं लोनं तु मिश्रित परिणामं रागमेव स्वस्मिन् परस्मिंश्चेति निश्चयनयमतं । इति पड़िधं रिपुं वैरिवर्ग । सहेलं स यथा सत्वरं जितो भवति तथा तं विजित्य तस्य विजयं विधाय । कषायं न विद्यते कषायोऽनन्तानुवन्ध्यादिषोकशदास्यादिनव नोकषायरूपपञ्चविंशतिभेदभिन्नो रागद्वेषरूपो वा यस्मिन्कर्मणि यथा स्यात्तथा कषायं । संयमगुणं संयमः शुभाशुभप्रवृत्तिनिरोधस्वनावस्तद्रूपो गुणो जीवधर्मो जीवस्य निर्वृतिस्वभाव इति यावत् तं । जज सदैव सेवस्व । तेन व विषयविकारं विषयाभिलापरूपविभावं दूरमतिशयेनापाकुरु निषेधय । तदेव रत्नत्रयस्य परमाराधनमित्यर्थः ॥ २ ॥ उपशमरसमनुशीलय मनसा रोषदहनजलदप्रायम् ।
कलय विरागं धृतपरजागं हृदि विनयं नायं नायम्, शृ० ॥ ३ ॥
व्याख्या - हे आत्मन् पुनराराधनकृते प्रथमतः रोषदहनजलदप्रायं रोषः कोपः स एव दहनो वनाग्निस्तस्य निर्वापणे जलदप्रायं मेघवृष्टितुल्यं । मनसा हृदयेन । उपशमरसं उपशमः क्षमा शान्तिः निर्वृतिपरिणामस्तस्मिन् यो रसः प्रेमनिमग्नता तं । अनुशीलय सदा पालय । विनयं नायं नायं नीत्वा नीत्वा प्राप्य प्राप्येति यावत् विनयं विशिष्टशास्त्र - शिक्षासमन्वित निर्वृतिनीतिं । धृतपरनागं धृतः लब्धः संपन्न इति यावत् परनागः परमोत्कर्षः यस्य स तथाविधस्तं । विरागं वैराग्यस्वजावं । हृदि कलय मनसि लक्ष्यस्वेत्यर्थः ॥ ३ ॥