________________
৬জজর
तदेव क्रमशो दर्शयति
संयमेन विषयाविरतत्वे दर्शनेन वितथाभिनिवेशम् ।
ध्यानमार्तमथ रौद्रमजस्रं चेतसः स्थिरतया च निरुन्ध्याः ॥ २ ॥
व्याख्या - निरुन्ध्या इति प्रत्येकं संबन्धनीयं । ततः संयमेन प्रवृत्तिनिरोधकस्वभावेन षड्जीव निकायर क्षणप्रयलस्वभावेन च । विषया विरतत्वे विषयाः शब्दादिपश्च विधास्तेष्वभिलाषरागद्वेषप्रवृत्त्यात्मका ये श्राश्रवाः तथा न विद्यते विरतं हिंसा दियो निवर्तनं यत्र स्वभावे सोऽविरतस्तनावोऽविरतत्वं, विषयाश्चाविरतत्वं चेति विषयाविरतत्वे पे श्राश्रवरूपे निरुन्ध्याः निरुद्भवनं विधेदि । दर्शनेन शुद्धदेवगुरुधर्मतत्त्वश्रद्धानरूपसम्यक्त्वेन । वितथाभिनिवेशं विगतमपगतं तथात्वं याथार्थ्य यस्मादभिनिवेशादसदाग्रहात्स वितथाभिनिवेशस्तं विपरीतश्रानाश्रवं निरुन्ध्या इति पूर्ववत् । श्रथानन्तरमार्तमार्तध्यानं रौद्रं च रौद्रध्यानं पूर्वोक्तरूपं ध्यानप्रयमाश्रवं अजस्रं सततं निरन्तरं चेतसो मनोवृत्तेः स्थिरतया स्थिरा निश्चला तनावस्तत्ता तया शुद्धध्येये स्थिरैकाममनोधारण्या मिथ्यात्वमुर्ध्यानजन्यान् श्राश्रवान् निरुन्ध्या इत्यर्थः ॥ २ ॥ ( शाखिनीवृत्तम् )
क्रोधं क्षान्त्या मार्दवेनानिमानं हन्या मायामार्जवेनोज्ज्वलेन । लोनं वारांरा शिरौद्रं निरुन्ध्याः सन्तोषेण प्रांशुना सेतुनेव ॥ ३ ॥