________________
खानां हेमरलदेहशब्दादीनां निचयो राशिस्तस्मिन् । ममतातापं मदीयत्वपरिणामेनोत्पादितं तापं कष्टवृन्दं मुधा स्वार्थ है विनैव वहसि प्रामोपीत्यर्थः ॥६॥
त्यज संयोगं नियतवियोगं कुरु निर्मलमवधानम् ।
न हि विदधानः कथमपि तृप्यसि मृगतृष्णाघनरसपानम्, ॥ वि०॥ ७॥ 8 व्याख्या हे श्रात्मन् नियतवियोग संयोगं त्यज नियतो निश्चितो यस्य वियोगो विनाशो नवति स नियतवियोगस्तं ।
संयोगं अमिलितयोर्मीलनं संयोगः संबन्धस्तं त्यज परिहर । निर्मखं पराशंसादिदोपमलरहितमीदृशमवधानं विनिवृत्तत्वेन निर्विकारमनोजावैकाम्यं कुरु रचय । अन्यथा त्वं सांसारिकैः सुखैः मृगतृष्णाघनरसपानं विदधानोऽपि कथं 8 तृप्यसि निदाघकाले मध्याहेऽजसे दृश्यमानो जलनमो मृगतृष्णा तस्यां धनं प्रचुरं रसपानं पयःपानं विदधानोऽपि कुर्वाणोऽपि कर्थ केनोपायेन कियता कालेन तृप्यसि वितृष्णो, नवसीत्यर्थः ॥७॥
अन्यत्वनावनामुपसंहरनाह
जज जिनपतिमसहायसहायं शिवगतिसुगमोपायम् ।
पिब गदशमनं परिहतवमनं शान्तसुधारसमनपायम् , वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽन्यत्वनावनाविनावनो नाम पञ्चमः प्रकाशः ॥