________________
त्यज ममतापरितापनिदानं परपरिचयपरिणामम् ।
जज निःसंगतया विशदीकृतमनुनवसुखरसमनिरामम् , वि०॥४॥ व्याख्या-ममतापरितापनिदानं ममता ममत्वनावः परि सर्वात्मप्रदेशेषु तापो वियोगवेदनादिजन्यसंतापो ऽर्गत्यादि-15 कष्टविशेषश्च परितापस्तयोः निदानं मुख्यहेतुर्यस्तं । परपरिचयपरिणामं परे स्वस्मादन्ये तेषां तेषु वा परिचयः संबन्धः। स्नेहश्च तेन तद्रूपो वा यः परिणामः स्वनावस्यान्यथाजावो विकारो वा तं त्यज स्वनावस्थनवनेन परिहर । निःसंगतया विशदीकृतमनिराममनुलवसुखरसं नज न विद्यते संगः परवस्तुसंसर्गो यस्यासौ निःसंगस्तस्य जावो निःसंगता | सर्वपरित्यागजा केवलात्मरूपता तया विशदीकृतं सर्वमलपरिहारेण निर्मलीकृतं निरावरणमिति यावत् अनिरामं सर्वदा सर्वप्रकारेण यो मनोहरः सन्मधुरो हृदयंगमस्तं अनुलवसुखरसं अनुजवनमात्मस्वरूपादिसर्वस्य प्रत्यक्करणमनुनवः परिपूर्णज्ञानविलासस्तस्य तेन कृतं तद्रूपं वा यत्सुखं सहजानन्दस्तद्रूपो रसो रतिः प्रेमा तं जज सेवस्वेत्यर्थः॥४॥
परेषां स्वस्य च यानमार्गोऽपि नैकोऽस्तीति दर्शयति
पथि पथि विविधपथैः पथिकैः सह कुरुते कः प्रतिबन्धम् ।।
निज निजकर्मवशैः स्वजने सह किं कुरुषे ममताबन्धम्, वि०॥५॥ व्याख्या-विविधपथैः पथिकैः सह पथि पनि कः प्रतिबन्धं कुरुते विविधा गम्यमानदिगनिप्रायस्थानादिनेदेनाने