SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अथ विशेषेणान्यत्वं नावयति- ( शार्दूलविक्रीतं वृत्तघयम् ) यस्मै त्वं यतसे विजेषि च यतो यत्रानिशं मोदसे गद्यछोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे । farai येषु निजवनावममलं निर्लोय्य लालप्यसे तत्सर्वं परकीयमेव जगवन्नात्मन्न किञ्चित्तव ॥ ३॥ व्याख्या - हे श्रात्मन् हृदा चेतसा विलोकय । किमित्याह - हृदेति सर्वत्र संबन्धनीयं यस्मै धनकुटुंबशरीरादिकृते त्वं देवदत्तादिः हृाकूतेन सहितः यतसे प्रकटप्रौढोद्यमपरो वर्तसे । च पुनः । यतः शत्रुसिंहसर्पचौरादित्यः शरीरधनादिनाशात् विजेषि जयवान् जवसि तहरीरादि । तथा यत्र स्त्रीधनपुत्रादिके अनिशं सदा निरन्तरं मोदसे सानदोऽसि तत् । तथा यत् पुरानष्टस्वजनधनादि शोचसि संतप्तचित्तः पश्चात्तापपरो जवसि । तथा यत् इच्छसि सुखत्रादिकं । यत्प्राप्य हृदा पेत्रीयसे याज्यपूजासत्कारादिकं प्राप्य लब्ध्वा हृदा मनसा पेप्रीयसेऽतिशयेन प्रेमवशो भवसि । येषु वस्त्रालंकारसदनोत्सवलाजादिषु प्राप्तेषु दृष्टेषु सत्सु स्निग्धः प्रेमरागरञ्जितो भूत्वा अमलं स्वचमणिवन्निर्मलं निजस्वावं सहज परिणतिं निर्दोठ्य नितरामुषस्य परित्यज्येति यावत् । लालप्यसे यथा तथा यथा तथा प्रलापान् करोषि । जगवन्नात्मन् हे जगवन् ज्ञानवैराग्यादिमन्नात्मन् तत्सर्वं तत्पूर्वोक्तं सर्व निःशेषं समयं परकीयमेव परमाण्वादिपुजलसंवन्ध्येव तान्यत्वात् यदाऽन्यत्वात् तव चेतनस्य तेन्योऽन्यस्य न किञ्चित् परमाणुमात्रमपि तव नास्तीति निर्वृतो नवेत्यर्थः ॥ ३ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy