SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अथ परस्मिनन्यत्वानवबोधात्स्वं विस्मृत्य परार्थ खिद्यते इत्युपदिशति (स्वागतावृत्तम् ) खिद्यसे ननु किमन्यकयातः सर्वदेव ममतापरतंत्रः। चिन्तयस्यनुपमान्कयमात्मनात्मनो गुणमणीन्न कदापि ॥२॥ व्याख्या-हे श्रात्मन् त्वं ममतापरतंत्रः सर्वदैवान्यकथातः ननु किं खिद्यसे ? ममता पूर्वोक्ता तजन्या या पर-11 तत्रता अहमेषां पालक एते मे पाट्या अयं मे प्रनुरित्यादिरूपा पराधीनता तया परतंत्रः परवशःसन् । सर्वदैव सर्वकाल-15 महर्निशं । अन्यकथातः अन्येषां स्वात्मभिन्नानां कथा तनोजनादिसंपादनचिन्ता तयातः पीमितः। नन्विति मुग्धमंत्रोधने । रे अज्ञ स्वयमेव स्वस्य पारवश्यमुत्पाद्य कष्टाफ्तनावसरे किं खिद्यसे कस्मात् त्वं खेदयसि स्वकृतपारवश्यं । मुंव । तथाऽन्यत्वाझः सन् अनुपमान् श्रात्मनो गुणमणीन् कथं कदापि न चिन्तयसि ? अनुपमान् सर्वेष्टसंपादक-15 त्वेन चिन्तामणिकामघटकल्पवृक्षादिसर्वोपमातीतान् श्रात्मनो जीवस्य ये गुणा अनन्तज्ञानदर्शनमयसर्वसंवन्धरहितनै-14 रञ्जन्यसत्तादिस्वस्वजावास्त एव सर्वोत्तमत्वेन मणयो रत्लानि तान् कथं कस्मात्प्रमादादिदोषात् कदापि सावकाशशयननोजनाद्यवसरेऽपि न चिन्तयमि एतेऽन्ये अहमन्योऽस्मीति हृदि निधाय नान्न ध्यायमीति न जाने का तवेला वर्तन इत्यर्थः ॥२॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy