________________
ममता तस्याः संगः संबन्धो रागस्तं परिहर निवारय । तत्कृत्वा शिवसौख्यनिधानं शान्तसुधारसपानं रचय शिवो निरुपत्रवो मोदस्तस्मिन् यत्सुखस्य नावः सौख्यं परमानन्दस्तस्य निधानमदयनांमागारं तदीदृशं शान्तसुधारसपानं ज्ञानवैराग्यादिनिजसहजपरिणामरूपपीयूषास्वादनं रचय विधेहीत्यर्थः ॥ ए॥
॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिखकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां शान्तसुधारसटीकायामशरणना
वनाविनावनो नाम दितीयः प्रकाशः समजनि ॥