________________
समुन्नते शिखरेऽधिरोति समारूढो भवति । तदपि पूर्वोक्त सर्वप्रकारे कृतेऽपि स पुमान् जरसा जरा वयोहा निस्तया जीते जीवत्येव । यत एवं ततस्तत्रापि सर्वशक्तिमान् धर्म एव शरणमित्यर्थः ॥ ६ ॥
सृजती म सित शिरोरुदल लितं मनुज शिरः सितपलितम् ।
को विदधानां नूघनमरसं प्रभवति रोद्धुं जरसम्, वि० ॥ ७ ॥
व्याख्या - श्रसित शिरोरुद्दलसितं मनुज शिरः सितपखितं सृजतीं नूनं रसं विदधानां जरसं को रोद्धुं प्रभवति न सितान्यसितानि श्यामानि शिरसि मस्तके रोहन्ति समुद्रवन्तीति शिरोरुहापि केशाः कर्मधारये कृते तैर्ललितं विराजितं मनुजशिरः मनुजा मनुष्यास्तेषां शिरो मस्तकं तत्सितपलितं सितं कर्पासवी जवझवलं सृजतीं कुर्वाणां । तथा नूनं नरादिशरीरं श्ररसं निःसारं सामर्थ्यरहितमिति यावत् विदधानां कुर्वतीं जरसं जरां राक्षसी कः किंनामको देवः पुरुषो वारोद्धुं निवारयितुं प्रभवति समर्थोऽस्ति ? न कोऽपि । यद्यपि देवादीनां शिरसि पलितं कर्तुं न शक्नोति, लोक स्थिते - रलंघनीयत्वात्, तथापि शक्तिहानिं तु सर्वेषां करोतीत्यर्थः ॥ ७ ॥
अथ सर्वोपायासाध्ययोर्जरामरणयोरशरणत्व चिन्ता दूरेऽस्तु किञ्चिदुपायसाध्ये रुगुदयेऽपि पीका विनागिशरणं नास्तीत्याहउद्यत उग्ररुजा जनकायः कः स्यात्तत्र सहायः ।
एकोऽनुवति विधुरुपरागं विजजति कोऽपि न जागम्, वि० ॥ ८ ॥