________________
विनय विधीयतां रे श्रीजिनधर्मः शरणम् । अनुसंधीयतां रे शुचितरचरणस्मरणम् , वि० ॥२॥ध्रुवपदं ।
व्याख्या-हे विनय हे मोकानिलापिन् तवायं स्वजनजनः स्वकीयो जनो जनकजननीज्रातृनगिनीलार्यादिलोकः।। बहुधा बहुभिः प्रकारैर्धनागमारोग्यवृद्धिनिरुपज्वादिचिन्तनैः । हितकामं हितं पथ्यं तत्करणे कामा मनोरथा यस्य स तथा तं । प्रीतिरसैरनिरामं प्रीतिरसास्तवोपरि प्रेमरसप्रकारास्तैः अजिरामः सुन्दरपरिणामस्तं तथाविधं वर्तमानमपि समागते मरणे शरणाय नावं जानीहि । सन्तं सुखदं तदपि । मरणदशावशमुपगतवन्तं कोऽपि न रक्षति मरणमायुषः।
यस्तद्रूपा दशाऽवस्था तस्या वशमधीनत्वमुपगतवन्तं प्राप्तं सन्तं कोऽपीति नक्तस्वजनमध्यात्कश्चिदेकोऽपि न रक्षति - कान मोचयतीति जावनीयमित्यतः श्रीजिनधर्मः शरणं विधीयतां श्रीः सर्वथाऽजरामरत्वप्रापणसामर्थ्य तया युक्तो। जिनप्रणीतो धर्मों वादशांगोक्तकृत्यविधानं स श्रीजिनधर्मः। नवनिरस्मानिरपि शरणमयमेव सत्याधार इति विधीयतां आश्रीयतां । तत्प्राप्तये च शुचितरचरणस्मरणमनुसंधीयतां शुचितरं सर्वथा सर्वदोपाजावादतिशयेन पवित्रं चरणं जिन-8 राजपादयुग्मं चारित्रं च तस्य स्मरणं जजनं चारित्रखमनस्य पर्यालोचनं अनुसंधीयतां स्वहृदयेऽखंडप्रेमधारया संयोज्यतां । चारित्रं च यत्र यत्र दोषसेवनया खंमितं ज्ञायते तत्र तत्र पुनः पूर्ण क्रियतां । एतत्कृते सत्येव जिनधर्मशरणं है कृतं नवति, नान्यथेत्यर्थः ॥१-२॥
तुरगरथेजनरावृतिकवितं, दधतं बलमस्खलितम् । हरति यमो नरपतिमपि दीनं, मैनिक व लघुमीनम्, वि० ॥३॥