SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ r: दयो देवा मेदुः सविलासा बभूवुः । तेऽपि प्राणान्तसमये श्रत्राणास्त्राणेन रक्षण समर्थाश्रयेण रहिताः क्रूरकृतान्तवक्ररदनैईवा निर्दव्यमाना हा शरणाय दीनानना दश दिशः प्रशन्त क्रूरो पुष्टजयंकरस्वभावः कृतान्तो मरणं तस्य य मुखं तस्मिन् ये रदना दन्तास्तैईगद्वलात्कारेण निर्दह्यमाना नितरां चर्व्यमाणा हा कष्टं तेऽपि शरणाय मरणाप्रणाय दीनानना दीनवदनाः सन्तो दश दिशः स्वशरीरादूर्ध्वाधस्तिर्यक्षु प्रैक्षन्त विलोकयन्ति स्म । तर्हि मरणे समागते तव क आधार इति चिन्तयेत्यर्थः ॥ १ ॥ ( स्वागतावृत्तम् ) तावदेव मदविचममाली, तावदेव गुण गौरवशाली । यावदक्षमकृतान्तकटादैर्ने क्षितो विशरणो नरकीटः व्याख्या- विशरणो नरकीटः न विद्यते शरणमाश्रयो यस्य स तथा । नरो मनुष्यः स एव कीटो जन्तुः । जातावेकवचनं । मदविन्रममाखी तावदेव मद श्रानन्दविनोदो जातिकुखबलरूपाद्यनिमानश्च तेन माली सविलासशोजमानः तेन संयुक्तो वा तावदेव साकल्येन कालतो भवति । तथा गुणगौरवशाली तावदेव गुणा रूपसौभाग्यकलाचातुर्यसौ| न्दर्यज्ञानादयस्तैगौरवमादरनक्तिसत्कारस्तेन शाखी शोभितः तावत् साकल्येन कालतस्तावन्मात्रमेव भवति । यावदक्ष - मकृतान्त कटाक्षैर्ने क्षितः यावन्मात्रमेव कार्यं क्षमा असह्यस्वभावत्वेन केनापि हन्तुमशक्याः कृतान्तस्य मरणस्य कटाक्षाः वक्ररोप रुषिकूणितनेत्रप्रान्तास्तैः नेति नैव ईक्षितो विखोकितः । श्रतः शरणं गवेषयेत्यर्थः ॥ २ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy