SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अथ वर्तमानकालवैपम्येण श्रयाशिथिक्षकारिहेतुविद्यमानतादर्शनपूर्वकं दृढनघायुक्तं नवितव्यमित्युपदिशति (शिखरिणीवृत्तम् ) विभिन्नाः पन्थानः प्रतिपदमनल्पाश्च मतिनः कुयुक्तिव्यासंगैर्निजनिजमतोबासरसिकाः । न देवाः सांनिध्यं विदधति न वा कोऽप्यतिशयस्तदेवं कालेऽस्मिन् य ह दृढधर्मा स सुकृती ॥५॥ व्याख्या-अस्मिन् प्रत्यक्ष्मनुजूयमाने कालेऽतिक्लिष्टनावापन्ने पञ्चमारके कलियुगे पन्थानो मोक्षमार्गा विभिन्ना विविजाधान् नेदान प्राप्ताः तान् दृष्ट्वा दोलायमानमानसाः श्रपाशैथित्यं जजन्तीत्येको हेतु. १ । अत्राय जावः-ईश्वरकारणिका हा ईश्वरानुग्रहादेव,कालवादिनः कालादेव,स्वन्नाववादिनः स्वनावादेव,पुरुषाकारवादिनः पौरुपात्, नियतिवादिनो नियतितः, मोक्षादिसकलकार्यसिद्धि मन्यन्ते । प्रतिपदं स्थाने स्थाने ग्रामेषु नगरेषु वनाश्रमादिषु । अनहपाश्च अतिप्रजूताः । चका| रादतिस्वमताग्रहग्रस्ताश्च । मतिनो बौघसांख्यनैयायिकवैशेषिकजैमिनीयचार्वाकादिमतवादिनः सन्ति । कीदृशास्ते ? | कुयुक्तिव्यासंगैर्निजनिजमतोलासरसिकाः कुत्सिता वस्तुस्वरूपे विसंवादिन्योऽप्रमाणजूता इति यावत् युक्तयो न्यायघटनाः यथेश्वरकृऊगत् कार्यत्वात् घटवत, यत्र यत्र कार्यत्वं तत्र तत्र बुद्धिमत्कर्तृकत्वं दृष्टं, यथा घटे कुलालः, तथा चात्र, स च बुद्धिमानीश्वर इत्यत्र कार्यत्वमात्रानुमानप्रतिबघा वस्तुस्वरूपानुनवविकलत्वात् कुयुक्तयस्तासां व्यासंगाः यथार्थवस्तुस्वरूपाविसंवादकविचारान् परित्यज्यैककुयुक्तिपरत्वेनासक्तयस्तैः कृत्वा । निजनिजमतं स्वस्वदर्शनपदस्तस्य य नसासः पुष्टिविश्च तस्मिन् रसिकास्तप्रसास्वादलंपटाः सन्ति, अयं वितीयो हेतुः । तथा दोलायमानश्रघावतां -CAS
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy