________________
अथ लोकस्वरूपानावनां गेयपद्याष्टकेन विजावयन्नाह
विनय विनावय शाश्वतं हृदि लोकाकाशम् ।
सकलचराचरधारणे परिणमदवकाशम्, वि० ॥१॥ व्याख्या-हे विनय हे विनीतात्मन् हृदि स्वचित्ते शाश्वतं सनातनमविनश्वरं लोकाकाशं सर्वदिक्कु लोकसीमापरिमितमाकाशखमं विनावय विविधत्लेदैश्चिन्तय । सकलचराचरधारणे सकलाः समग्रा निःशेपा इति यावत् चराः स्थानान्त
रयायिनो विनश्वराश्च परमाएवादयः, न चरा न स्थानान्तरयायिनो न सर्वथा विनश्वरा धर्मास्त्यधर्मास्तिमेरुस्वर्गविमानकानरकादयस्तेपां धारणे स्वस्वरूपमर्यादानाजनीनवने । परिणमन् तत्तदाधेयाकारावस्थान्तरत्वं जजन् अवकाशः प्रवेशनिर्गमावगाहाश्रयदानत्वं यस्य तं लोकाकाशं ध्यायस्वेत्यर्थः ॥१॥ लसदलोकपरिवेष्टितं गणनातिगमानम् । पञ्चलिरपि धर्मादिनिः सुघटितसीमानम्, विण ॥२॥ | व्याख्या–अलोकपरिवेष्टितं लसत् न विद्यते लोको धर्माधर्मपुजलजीवानामन्वयो यस्मिन् सोऽलोकः केवलमहा-8 नाकाशस्थलीजूतोऽवकाशमानस्तेन परि समन्तादेष्टितः स्वोदरमध्ये निवेशितो लसत् दीप्यते पञ्चास्तिकायात्मकत्वेन शोलते च तं गणनातिगमानं गणनया संख्ययाऽतिगमतिक्रान्तं मानं परिमाणं यस्य सोऽसंख्येयः परिमाणेन वर्तते तं । धर्मादिनिः प्रोक्तस्वरूपैर्धर्मास्तिकायादिनिः पञ्चलिरपि समुदितैः पञ्चसंख्यैरपि न तु कचिदेकक्षित्रिनिः । सुघटितसीमानं । सुष्टु सम्यकू शोजना सुन्दरा घटिता रचिता सीमाऽलोकतो जिन्नताबोधिनी मर्यादा यस्य स तम् ॥२॥