SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धर्म पवृक्षोपमानेन स्तौति ( मन्दाक्रान्तावृत्तम् ) प्राज्यं राज्यं सुजगदयिता नन्दना नन्दनानां रम्यं रूपं सरसकविताचातुरी सुखरत्वम् । नीरोगत्वं गुणपरिचयः सनत्वं सुबुद्धिं किंतु ब्रूमः फलपरिणतिं धर्मकल्पमस्य ॥ 9 ॥ व्याख्या- नु वितर्के । धर्मकल्पद्रुमस्य फलपरिणतिं किं नु ब्रूमः प्रोक्तरूपधर्म एव कल्पद्रुमः सुरपादपः तस्य संबन्धिनीं फलपरिणतिं फलपरिपाकरूपां श्रेणि वयं किं नु ब्रूमः ? कियस्पामः ? कथयितुं न शक्नुमः, अतिप्रभूतत्वादित रकल्पवृफलश्रेएयेकविधैव श्रूयते धर्मरूपस्य कपवृक्षस्य त्वनेकविधत्वेनानुभूयमानत्वादिति यावत् । तथाह - यतो धर्माप्राज्यं चक्रवर्तित्वादि प्राज्यं प्रौढमेकछत्रं जायते । सुनगदयिता सुनगा सौभाग्यनूपितेष्टा दयिता वह्नना स्त्री जवति । नन्दनानां पुत्राणामपि नन्दनाः पुत्रा जयन्ति । रूपं शरीरसौन्दर्य रम्यं जननयनरमणीयं प्राप्यते । सरस कविताचातुरी सरसा | माधुर्यचमत्कारोत्पादिका कविता कवित्वकलानैपुण्यं जायते । सुम्वरत्वं कोकिलारुताधःकारी मधुरध्वनिर्भवति । नीरोगत्वं रोगरहितत्वं संपद्यते । गुणपरिचय गुणानां गांजीयदार्यशौर्यादीनां परिचयः सर्वतो वृद्धिः । सनत्वं जगन्मैत्रत्वं । सुबुद्धिं सन्मतिं वनत इत्यर्थः ॥ ७ ॥ अथ धर्मस्वाख्यातजावनां गेयपद्याष्टकेन विभावयन्नादपालय पावय रे पालय मां जिनधर्म ।
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy