________________
पर्यन्तपदं 'पडिहत्थभमंतमच्छकच्छपअणेगसउणमिणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवन्नामा र ताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सनुभयोः पाश्वयोःभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन् पावे एकया पचवरलेटिकया द्वितीये पावे द्वितीयया पवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां "सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णकश्च प्राग्वत् ॥ 'नीलवंतदहस्स णं दहस्स तत्थ तत्थे'त्यादि, नीलवड्दस्य णमिति वाक्यालहारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं, 'ते णं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्थगा' इति पदम् ॥ 'तस्स ण'मित्यादि, तस्य नीलवन्नानो हदस्य बहमध्यदेशभागे, अत्र महदे पनं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चाईयोजनं बाहुल्येन दश योजनानि 'उद्वेधेन' उण्डलेन जलपर्यन्ताद द्वौ क्रोशौ उच्छितं सर्वांग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि ॥ 'तस्स ण'मित्यादि, तस्य पद्मस्य 'अयं' वक्ष्यमाणः 'एतद्पः' अनन्तरमेव वक्ष्यमाणवरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वामयं मूलं रिष्ठरत्नमयः कन्दो वैडूर्यरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्करस्थिबुका ॥ “सा णं कणिया अद्ध'मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वात्मना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि परिग्रहः॥ 'तीसे णं कणियाए' इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्वर्णनं च से जहानामए आलिंगपुक्खरेइ वेत्यादिना ग्र