________________
RS
-
25
भा-उपचितमांसं संस्थितं-विशिष्टसंस्थान प्रशस्तं-प्रशस्तलक्षणोपेतं हनुकं यासां ता मांसलसंस्थितप्रशस्तहनुकाः 'दाडिमपुप्फप्पगासपीवरप्पवराहरा' दाडिमपुष्पप्रकाशः पीवरः प्रवर-सुभगोऽधरो यासां ता दाडिमपुष्पप्रकाशपीवरप्रवराधरा: 'सुंदरोत्तरोटा' व्यक्तं 'दहिदगरयचंदकुंदवासंतियमउलधवलअच्छिह विमलदसणा' दधि-प्रतीतं दुकरज-उदककणाः चन्द्रः-प्रतीत: कुन्दः-कुसुमं वासन्तिकामुकुलं-वासन्तिकाकलिका तद्वद्धवला अच्छिद्रा:-छिद्ररहिता विमला-मलरहिता दशना-दन्ता यासां ता दधिदकरजश्चन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशनाः 'रत्तुप्पलपत्तमउयसूमालतालुजीहा' रक्तोत्पलवद् रक्तं मृदु-अकठिनं सुकुमारअकर्कशं तालु जिह्वा च यासां ता रक्तोत्पलमृदुसुकुमारतालुजिह्वाः 'कणइरमुकुलअकुडियअब्भुग्गयउज्जुतुंगनासा' कणयराअतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेदकणाकीर्णा मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकारा अभ्युद्गताअभ्युन्नता ऋजुका-सरला तुङ्गा-उच्चा नासा यासां तास्तथा, 'सारयनवकमलकुमुयकुवलयविमुक्कदलनिगरसरिसलक्खणंकियकंतनयणाओ' शारद-शरन्मासभावि यन्नवं-प्रत्ययं कमलं-पगं कुमुदं-कैरवं कुवलयं-नीलोत्पलं तैर्विमुक्तो यो दलनिकरस्तत्सदृशे, किमुक्तं भवति ?-एवं नामायतदीचे मनोहारिणी नयने यत् शारदानवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमा|भातीति, लक्षणाङ्किते-प्रशस्तलक्षणोपेते नयने यासां ताः शारदनवकमलकुमुदकुवलयविमुक्तदलनिकरसदृशलक्षणाकितनयनाः, एतदेव किञ्चिद्विशेषार्थमाह-पत्तलचपलायंततंबलोयणाओ' पत्रले-पक्ष्मवती चपलायमाने ताने-कचित्प्रदेशे ईषद्क्ते लोचने यासां ताः पत्रलचपलायमानताम्रलोचना: 'आणामियचावरुइलकिण्हन्भराइसंठियसंगयआगयसुजायभुमया अल्लीणपमायजुत्तसवणा' इति पूर्ववत्, 'पीणमहरमणिज्जगंडलेहा' पीना-उपचिता मृष्टा-मसृणा रमणीया-रम्या गण्डरेखा-कपोलपाली यासां ताः पीनमृष्टरमणीयगण्ड
%