________________
वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊर्ध्वाधः पृथुला दक्षिणोत्तरतः श्रोणि:-कटेरप्रभागो यासां ता: पट्टसंस्थितविस्तीर्णपृथुलश्रोणयः 'वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारणीओ' वदनस्य-मुखस्यायामप्रमाणं-द्वादशाडलानि तस्माद् द्विगुणितं-द्विगुणप्रमाणं सद् विशालं वदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्धं-अतीव सुबद्धावयवं न तु श्लथमिति भावः जघनवरं-वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात् , धारयन्तीत्येवंशीला वदनायामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्यः 'वजविराइयपसत्थलक्खणनिरोदरतिवलीविणीयतणुनमियमज्झियाओ' वास्येव विराजितं वत्रविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिस्रो वलयो विनीता-विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु-कृशं नतं तनुनतमीषन्नतमित्यर्थः मध्यं यास ता वनविराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनतमध्यकाः ‘उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएज्जलडहसुविभत्तसुजायसोभतरुइलरमणिज्जरोम-1 राई' ऋजुका-न वक्रा समान काप्युहन्तुरा संहिता-सन्तता न खपान्तरालव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव आदेया सुविभक्ता-सुविभागा सुजाता-जन्मदोषरहिता अत एव' शोभमाना रुचिरा-दीपा रमणीया-द्रष्टमनोरमणशीला रोमराजिर्यासां ता ऋजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलंटहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियआकोसायंतपउमगंभीरवियडनाभा' इति पूर्ववत् , 'अणुब्भडपसत्थपीणकुच्छीओ' अनुद्भटा-अनुल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुक्षिासा ता अनुद्भटप्रशस्तपीनकुक्षयः 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय