SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ चितच्छोटिताः, नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात् , केवलं छोटिता अपि तथास्वभावतया शाल्मलीबोण्डाकारवद् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः-अकर्कशा विशदा-निर्मलाः प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्मा:-श्लक्ष्णाः लक्षणा-लक्षणवन्तः सुगन्धाः-परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको-रत्नविशेषः भृङ्गः-प्रतीतः नीलो-मरकतमणिः कजलं-प्रतीतं प्रहृष्ट:-प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः, प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहटग्रहणं, तद्वस्निग्धा भुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बा-निकाम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिलाः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते शाल्मलीबोण्डघननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्तमूर्द्धशिरोजाः, 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकादीनि व्यजनानि-मपतिलकादीनि गुणा:-क्षान्यादयस्तैरुपपेता-युक्ता लक्षणव्यजनगुणोपपेताः 'सुजायसुविभत्तसुरूवगा' सुजातं-सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तं-अङ्गप्रत्यगोपाङ्गानां यथोक्तवैविक्क्यभावात् सुरूपं-शोभनं रूपं समुदायगतं येषां ते सुजातसुविभक्तसुरूपकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह-गौतम! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्यः-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यगानि-उदरप्रभृतीनि तैः सुन्दर्यः-सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना-अतिशायिनो ये महेलागुणा:-प्रियंवदत्वभवृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ता-उपपेताः प्रधानमहेलागुणयुक्ताः 'कंतविसयमिउसुकुमालकुम्मसंठिवियसि
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy