________________
| अतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निधं कुसुमियाओ' इत्यादि विशेषणजातं प्राग्वत् 'जाव पडिरूवाओ' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे वह्नयो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्ततः पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताच वनराजयः प्रज्ञप्ताः कृष्णा: कृष्णाविभासा इत्यादि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् 'अणेगरहजाणजुग्गगिल्लिथिल्लिसीयसंद्माणियपडिमोयणाओ सुरम्माओ जाव पडिरूवाओ' इति ॥ ' उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, किंविशिष्टास्ते ? इत्याह-यथा 'से चंदप्पभमणिस लाग' इत्यादि, यथा चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा - आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तत् सीधु च वरसीधु, वरा च सा वारुणी च वरवारुणी 'सुजायपुन्नपुप्फफल चोयनिज्जास सारबहुदव्वजुत्तिसंभारकालसंधियआसव' इति इहासवः - पत्रादिवासकद्रव्यभेदादनेकप्रकार:, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे - 'पत्ता सवेइ वा पुप्फासवेइ वा फलासवेइ वा | चोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससार: पुष्पनिर्याससारः फलनिर्याससारचोयनिर्याससारः, तत्र पत्रनिर्यासो - धातकीपत्ररसस्तत्प्रधान आसवः पत्रनिर्याससारः एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयो गन्धद्रव्यं तन्निर्याससारञ्चोयनिर्याससारः, सुजाता:- सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपबृंहकाणां युक्तयो-मीलनानि तासां संभार:- प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभाराः, पुनः कथम्भूताः ? इत्याह – 'कालसंधिय' इति कालसन्धिताः सन्धानं सन्धा काले-स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादि