SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ - -- यन्तीति भावः, अप्येकका देवा महता महता शब्देन 'रवन्ते' शब्दं कुर्वन्ति अप्येकका देवाश्चत्वार्यपि सिंहनादादीनि कुर्वन्ति, अप्येकका देवा 'हक्कारेंति' हकारं कुर्वन्ति अप्येकका देवाः 'वुक्कारेंति' मुखेन वुकारशब्दं कुर्वन्ति अप्येकका देवाः 'थक्कारेंति' थक्क इत्येवं महता शब्देन कुर्वन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति अप्येकका देवा उत्पतन्ति. अप्येकका देवाः परिपतन्ति-तिर्यग्निपतन्तीत्यर्थः अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अप्येककाः 'ज्वलन्ति' ज्वालामालाकुला भवन्ति अप्येकका देवाः 'तपन्ति' तप्ता भवन्ति अप्येककाः प्रतपन्ति अप्येकका देवास्त्रीण्यपि कुर्वन्ति, अप्येकका देवा गर्जयन्ति-अप्येककाः 'विजयारंति' विद्युतं कुर्वन्ति अप्येकका देवा वर्ष वर्षन्ति अप्येककास्त्रीण्यप्यतानि कुर्वन्ति, अप्येकका देवा देवोत्कलिका कुर्वन्ति-देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहं कुर्वन्ति-प्रभूतानां देवानां प्रमोदभरवशतः मा स्वेच्छावचनोलः कोलाहलो देवकहकहस्तं कुर्वन्ति, अप्येकका देवा देवदुहृदुहकं कुर्वन्ति-दहदहकमित्यनक कास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवाश्चेलोत्क्षेपं कुर्वन्ति, अप्येकका देवा वन्दनकलशहस्तगता:-वन्दनकलशा हस्ते गता येषां ते वन्दनकलशहस्तगताः, अप्येकका देवाः भृङ्गारकलशहस्तगताः, एवमादर्शस्थालपात्रीसुप्रतिष्ठकवातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनचामरतैलसमुद्गकयावदजनसमुद्गकधूपकडुच्छकहस्तगता: प्रत्येकमभिलाप्याः, 'हडतुडे'त्यादि यावत्करणात् 'हतुहचित्तमाणंदिया पीतिमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, सर्वतः समन्ताद् आधावन्ति प्रधावन्ति ॥ 'तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ' इत्याद्यभिषेकनिगमनसूत्रमाशीर्वादसूत्रं -च पाठसिद्धम् ॥ -- - - -- - - VMon
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy